|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.124. अध्यायः 124
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण श्रीकृष्णंप्रति दुर्योधनानुनयप्रार्थन ॥ 1 ॥ श्रीकृष्णेन दुर्योधनानुनयः ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-124-0x(3757)(35944)
भगवन्नेवमेवैतद्यथा वदसि नारद।
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥ 5-124-1(35945)
वैशम्पायन उवाच। 5-124-2x(3758)
एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः ।
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥ 5-124-2(35946)
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् ।
`न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन ॥' 5-124-3(35947)
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम।
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ॥ 5-124-4(35948)
न श्रृणोति महाबाहो वचनं साधु भाषितम् ।
गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः ।
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ॥ 5-124-5(35949)
स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् ।
अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् ॥ 5-124-6(35950)
सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन ॥ 5-124-7(35951)
वैशम्पायन उवाच। 5-124-8x(3759)
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥ 5-124-8(35952)
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम।
शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ॥ 5-124-9(35953)
महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि ।
श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ॥ 5-124-10(35954)
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥ 5-124-11(35955)
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम्।
असतां विपरीता तु लक्ष्यते भरतर्षभ ।
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ॥ 5-124-12(35956)
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ।
अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ॥ 5-124-13(35957)
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि।
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ॥ 5-124-14(35958)
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥ 5-124-15(35959)
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः।
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ।
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ॥ 5-124-16(35960)
पितामहस्य द्रोणस्य विदुरस्य महामतेः ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ॥ 5-124-17(35961)
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः।
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप ॥ 5-124-18(35962)
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा।
ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् ।
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥ 5-124-19(35963)
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।
उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम् ॥ 5-124-20(35964)
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः।
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम् ॥ 5-124-21(35965)
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।
विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥ 5-124-22(35966)
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते।
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥ 5-124-23(35967)
यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते।
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥ 5-124-24(35968)
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥ 5-124-25(35969)
सतां मतमतिक्रम्य योऽसतां वर्तते मते।
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥ 5-124-26(35970)
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥ 5-124-27(35971)
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम्।
परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत ॥ 5-124-28(35972)
तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि ।
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥ 5-124-29(35973)
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥ 5-124-30(35974)
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥ 5-124-31(35975)
मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः ।
त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः ॥ 5-124-32(35976)
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ ।
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥ 5-124-33(35977)
त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ ।
धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः ॥ 5-124-34(35978)
पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते।
मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते ॥ 5-124-35(35979)
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
कामार्थावनुपायेन लिप्समानो विनश्यति ॥ 5-124-36(35980)
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्।
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ॥ 5-124-37(35981)
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते ।
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥ 5-124-38(35982)
स त्वं तातानुपायेन लिप्ससे भरतर्षभ ।
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥ 5-124-39(35983)
आत्मानं तक्षति ह्येष वनं परशुना यथा।
यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ।
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ॥ 5-124-40(35984)
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः।
आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ॥ 5-124-41(35985)
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान्।
अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः ॥ 5-124-42(35986)
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ।
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ॥ 5-124-43(35987)
तैर्हि संप्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि।
पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ॥ 5-124-44(35988)
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशससऽन्वतः ।
दुःशासने दुर्विषहे कर्णे चापि ससौबले ॥ 5-124-45(35989)
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ।
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ॥ 5-124-46(35990)
विक्रमे चाप्यपर्याप्तः पाण्डवान्प्रति भारत।
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ॥ 5-124-47(35991)
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे।
इदं सनिहितं तात समग्रं पार्थिवं बलम् ॥ 5-124-48(35992)
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ।
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ॥ 5-124-49(35993)
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ।
अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः ।
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥ 5-124-50(35994)
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले।
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥ 5-124-51(35995)
किं ते जनक्षयेणेह कृतेन भरतर्षभ ।
यस्मिञ्चिते जितं ते स्यात्पुमानेकः स दृश्यतां ॥ 5-124-52(35996)
यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।
अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः ॥ 5-124-53(35997)
तथा विराटनगरे श्रूयते महदद्भुतम्।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ 5-124-54(35998)
युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः ।
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।
आशंससीह समरे वीरमर्जुनमूर्जितम् ॥ 5-124-55(35999)
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः ॥ 5-124-56(36000)
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ 5-124-57(36001)
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा।
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ॥ 5-124-58(36002)
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥ 5-124-59(36003)
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ॥ 5-124-60(36004)
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ॥ 5-124-61(36005)
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।
संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ॥ 5-124-62(36006)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-124-19 शास्त्रे शासने ॥ 5-124-22 किंपाकं महाकालफलम् ॥ 5-124-24 निःश्रेयसं कल्याणम् ॥ 5-124-28 गौः भूमिः ॥ 5-124-32 उपचरिताः प्रचारिताः ॥ 5-124-35 अर्थं कलि कलहहेतम ॥ 5-124-36 अनुपायन हीनोपायेन ॥ 5-124-44 निर्मितां वशीकरणेनोत्पादिताम् ॥ 5-124-52 यस्मिन्नर्जुने जिते सति ते तव जितं जयः स्यात् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|